|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.104. अध्यायः 104
Mahabharata - Vana Parva - Chapter Topics
अगस्त्येन समुद्रसलिले निपीते देवैर्दैत्यहननम् ॥ 1 ॥ देवैः पुनरर्णवपूरणाय पीतोदकोत्सर्जनं प्रारिथितेनागस्त्येन तस् स्वेन जीर्णीकरणोक्तौ तदर्थं ब्रह्माणंप्रति प्रार्थनम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
लोमश उवाच। 3-104-0x(2046)(20139)
समुद्रं स समासाद्य वारुणिर्भगवानृषिः।
उवाच सहितान्देवानृषींश्चैव समागतान् ॥ 3-104-1(20140)
एष लोकहितार्थं वै पिबामि वरुणालयम्।
भवद्भिर्यदनुष्ठेयं तच्छीघ्रं संविधीयताम् ॥ 3-104-2(20141)
एतावदुक्त्वा वचनं मैत्रावरुणिरच्युतः।
समुद्रमपिबत्क्रुद्धः सर्वलोकस्य पश्यतः ॥ 3-104-3(20142)
पीयमानं समुद्रं तं दृष्ट्वा सेन्द्रास्तदाऽमराः।
विस्मयं परमं जग्मुः स्तुतिभिश्चाप्यपूजयन् ॥ 3-104-4(20143)
त्वं नस्त्राता विधाता च लोकानां लोकभावन।
त्वत्प्रसादात्समुच्छेदं न गच्छेत्सामरं जगत् ॥ 3-104-5(20144)
स पूज्यमानस्त्रिदशैर्महात्मा
गन्धर्वतूर्येषु नदत्सु सर्वशः।
दिव्यैश्च पुष्पैरवकीर्यमाणो
महार्णवं निःसलिलं चकार ॥ 3-104-6(20145)
दृष्ट्वा कृतंनिःसलिलं महार्णवं
सुराः समस्ताः परमप्रहृष्टाः। 3-104-7cप्रगृह्य दिव्यानिवरायुधानि
तान्दानवाञ्जघ्रुरदीनसत्वाः ॥ 3-104-7(20146)
ते वध्यमानास्त्रिदशैर्महात्मभि-
र्महाबलैर्वेगिभिरुन्नदद्भिः।
न सेहिरेवेगवतां महात्मनां
वेगं तदा धारयितुं दिवौकसाम् ॥ 3-104-8(20147)
ते वध्यमानास्त्रिदशैर्दानवा भीमनिःस्वनाः।
रचक्रु सुतुमुलं युद्धं मुहूर्तमिव भारत ॥ 3-104-9(20148)
ते पूर्वं तपसा दग्धा मुनिभिर्भावितात्मभिः।
यतमानाः परं शक्त्या त्रिदशैर्विनिषूदिताः ॥ 3-104-10(20149)
तेहेमनिष्काभरणाः कुण्डलाङ्गदधारिणः।
निहता बह्वशोभन्त पुष्पिता इव किंशुकाः ॥ 3-104-11(20150)
हतशेषास्ततः केचित्कालेया मनुजोत्तम।
विदार्य वसुधां देवीं पातालतलमास्थिताः ॥ 3-104-12(20151)
निहतान्दानवान्दृष्ट्वा त्रिदशा मुनिपुह्गवम्।
तुष्टुवुर्विविधैर्वाक्यैरिदं वचनमब्रुवन् ॥ 3-104-13(20152)
त्वत्प्रसादान्महाबाहो लोकैः प्राप्तं महत्सुखम्।
त्वत्तेजसा च निहताः कालेयाः क्रूरविक्रमाः ॥ 3-104-14(20153)
पूरस्व महाबाहो समुद्रं लोकभावन।
यत्त्वया सलिलं पीतं तदस्मिन्पुनरुत्सृज ॥ 3-104-15(20154)
एवमुक्तः प्रत्युवाच भगवान्मुनिपुङ्गवः।
`तांस्तदा सहितान्देवानगस्त्यःसपुरन्दरान्' ॥ 3-104-16(20155)
जीर्णं तद्धि मया तोयमुपायोऽन्यः प्रचिन्त्यताम्।
पूरणार्थं समुद्रस्य भवद्भिर्यत्नमास्थितैः ॥ 3-104-17(20156)
केतच्छ्रुत्वा तु वचनं महर्षेर्भावितात्मनः।
विस्मिताश्च विषण्णाश्च बभूवुः सहिताः सुराः ॥ 3-104-18(20157)
परस्परमनुज्ञाप्यप्रणम्य मुनिपुङ्गवम्।
प्रजाः सर्वा महाराज विप्रजग्मुर्यथागतम् ॥ 3-104-19(20158)
त्रिदशा विष्णुना सार्धमुपजग्मुः पितामहम्।
पूरणार्थं समुद्रस्य मन्त्रयित्वा पुनः पुनः ॥ 3-104-20(20159)
ते धातारमुपागम्य त्रिदशाः सह विष्णुना।
ऊचुः प्राञ्जलयः सर्वे सागरस्याभिपूरणम् ॥ 3-104-21(20160)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि चतुरधिकशततमोऽध्यायः ॥ 104 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|